Top 10 similar words or synonyms for william

james    0.987064

institution    0.982277

but    0.982149

mahesh    0.981759

only    0.979823

charles    0.978877

tips    0.978838

after    0.978590

emission    0.978587

provided    0.978580

Top 30 analogous words or synonyms for william

Article Example
आस्टन् फ्रान्सिस् विलियम् अयं आस्टन् फ्रान्सिस् विलियम् (Aston Francis William) प्रख्यातः रसायनशास्त्रज्ञः तथा भौतविज्ञानी च ।
उसैन् बोल्ट् उसैन् बोल्ट्‌-वर्यः माध्यमिकशिक्षणार्थं विलियं निब् मेमोरियल्(William Knibb Memorial) विद्यालयं प्रविष्टवान् । तत्र सः अन्यक्रीडासु मनसः केन्द्रीकरणं कृतवान् । सः क्रिकेट् क्रीडा क्रीडनसमये तस्य विद्यालयस्य मार्गनिर्देशकः अस्य धावनस्य गतिं दृष्टवान् । मार्गनिर्देशकः एनं धावनादि क्रीडायां मनसः एकत्रीकरणार्थं प्रचोदितवान् । पाब्लो मेक्नील्(Pablo McNeil) तथा ड्वेन् जरेट्(Dwayne Jarrett) द्वौ अस्य अत्लेटिक्स् क्रीडार्थं मार्गदर्शनं दत्तवन्तौ । मैकल् ग्रीन्(Michael Green) इत्यादि अत्लेटिक् क्रीडापटवः अस्य विद्यालये अभ्यासं कृतवन् आसीत् ।
कोलकाता उच्चन्यायालयः कोलकाता-उच्चन्यायालयः(, ) भारतस्य प्राचीनतम उच्चन्यायालयः । १८६१ तमे सम्बत्सरे निर्मित उच्चन्यायालयः इति अध्यादेशनुगुणं("High Courts Act", १८६१) कोलकाता उच्चन्यायालयस्य संरचना अभूत् । अयं न्यायालयः १८६२ वर्षस्य जुलै मासस्य प्रथमे दिनाङ्के कार्यारम्भम् अकरोत् । प्रारम्भिकदिनेषु अस्य नाम आसीत् "है कोर्ट् अफ़् जुडिकेचर् एट् फोर्ट् विलियम्"("High Court of Judicature at Fort William")। वर्तमानकाले समग्रपश्चिमवङ्गः तथा अण्डमाननिकोबारद्वीपसमूहः (भारतस्य केन्द्रशासितराज्यम्) कोलकाता उच्चन्यायालस्य अधिकारक्षेत्रे अन्तर्भवति । अण्डमानराज्यस्य राजधान्यां "पोर्ट् ब्लेयर्"नगर्य्यामपि कोलकाता उच्चन्यान्यालस्य विशेषकार्यालयः अस्ति ।
भारतीयराष्ट्रियकाङ्ग्रेस् भारतीयराष्ट्रियकाङ्ग्रेस् इति पक्षं क्रि.श.१८८५तमे वर्षे डिसेम्बर् मासस्य २८तमे दिने स्थापितः । अस्य स्थापकः ब्रिटन् देशीयः आङ्ग्लाधिकारी ए.ओ.ह्यूम् (Allan Octavian Hume) । तेन सह दादाभाई नवरोजि(Dadabhai Navroji), दिन्शाव् वाचा (Dinshaw Wacha), वोमेश् चन्द्र बेनर्जी (Womesh Chandra Bonnerjee), सुरेन्द्रनाथ बेनर्जी (Surendranath Banerjee), मनमोहन घोष् (Monomohun Ghose),महादेवगोविन्द रानडे (Mahadev Govind Ranade), विल्लियं वेड्डर्बन् (William Wedderburn) इत्यादयः आसन् । सुशिक्षितभारतीयानां सर्वकारे अवकाशपरिकल्पनार्थं स्थापितवन्तः । आरम्भकाले अयं पक्षः ब्रिटिष्प्रशासनस्य विरोधी नासीत् । अस्य प्रथमा सभा स्काट्लेण्ड्देशस्य अलन् आक्टेवियन् ह्यूम् इति प्रदेशे तदानीन्तन वैस्राय् लार्ड् डफरिन् इत्यस्य अनुमत्या व्यवस्थापितम् । तदनन्तरदिनेषु ब्रिटिष् सर्वकारेण अनादृतः पक्षः भारतस्य स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । तस्मिन् काले अस्मिन् काङ्ग्रेस् पक्षे दलद्वयम् आसीत् । एकः क्रान्तिदलः अपरः शान्तदलः । ब्रिटिष् अधिकारिणां विषये प्रतिक्रियानुगुणम् एवं वर्गीकरणम् अभवत् । काङ्ग्रेस् पक्षस्य स्वातन्त्र्यपूर्वनेतृषु महात्मा गान्धिः सुभाष्चन्द्र बोस् च परिगणनीयौ ।
विलियं हार्वे अयं विलियं हार्वे (William Harvey) शरीरे रक्तस्य परिचलनक्रमस्य संशोधकः । एषः १५७८ तमे वर्षे एप्रिल्मासस्य प्रथमे दिनाङ्के इङ्ग्लेण्ड् देशस्य पोक्स्टोन् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता थामस् हार्वे पुरसभायाः अध्यक्षः आसीत् । अयं विलियं हार्वे केम्ब्रिड्ज्–विश्वविद्यालये पदविशिक्षणं समापयत् । तदनन्तरम् इटलीदेशं गत्वा तत्रत्ये पादुअ–विश्वविद्यालये अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । ततः पुनः लण्डन् नगरं प्रतिनिवृत्य वैद्यवृत्तिम् आरभत । अयं विलियं हार्वे गृहस्य अन्तरट्टम् एव प्रयोगालयं कृत्वा वैद्यकीयान् प्रयोगान् अकरोत् । सः सजीवान् एव प्राणीन् प्रयोगार्थम् उपयुक्तवान् । हृदयस्य स्थाने शरीरस्य चर्म विदार्य हृदयस्य अध्ययनम् अकरोत् । ’हृदयं तदा तदा किञ्चित् कालं यावत् विश्रम्य पुनः कार्यारम्भं करोति । विश्रामावसरे हृदयं कठिनं भवति । पुनः कार्यारम्भे मृदु भवति । हृदयं यदा कठिनं भवति तदा लघु भवति । यदा मृदु भवति तदा च बृहत् भवति । तदवसरे हृदयस्य वर्णः अपि परिवर्तते । यदा हृदयं लघु कठिनं च भवति तदा हृदयं श्वेतवर्णीयं भवति । यदा च बृहत् मृदु च भवति तदा रक्तवर्णीयं भवति ।’ इति अंशान् अयं विलियं हार्वे संशोधितवान् । बहुवारं वीक्षणस्य अनन्तरं तेन ज्ञातं यत् हृदयं नाम कश्चन मांसपिण्डः । यदा हृदयं लघु भवति तदा तत् रक्तं बहिः सम्प्रेष्य श्वेतवर्णीयं भवति । यदा च रक्तं हृदयं प्रविशति तदा तत् बृहत् रक्तवर्णीयं च भवति । अतः हृदयं किञ्चित् जलयन्त्रम् इव । रक्तं स्वीकृत्य पुनः बहिः प्रेषयति ।