Top 10 similar words or synonyms for सदर

saturn    0.857051

position    0.829017

औल    0.804096

lakshman    0.794677

ಯಲ    0.792615

ಜನ    0.791650

hymns    0.791128

कगर    0.790305

stadium    0.789512

ಚರ    0.789168

Top 30 analogous words or synonyms for सदर

Article Example
चौहानवंशः त्रिपुर्याः तेवर इत्येतत् नामान्तरम् अस्ति । सद्यः त्रिपुरी तेवर इति नाम्ना एव प्रसिद्धम् अस्ति । ऐतिहासिकप्रमाणानाम् आधारेण सिध्यति यत्, विन्ध्य-सतपुडा-पर्वतमालिकयोः मध्ये स्थितः भूभागः अष्टम्यां शताब्द्यां चेदिदेश इतिनाम्ना प्रसिद्धः आसीत् । ततः सः भूभागः मध्यदेश इति प्रसिद्धः अभवत् । सद्यः सः प्रदेशः मध्यप्रदेशत्वेन प्रसिद्धः । तस्य मध्यप्रदेशस्य जबलपुर-नगरस्य सदर-आख्यात् स्थलात् भेटाघट्ट-स्थलगमनमार्गे तेवर इत्याखः ग्रामः विद्यते । सः ग्रामः त्रिपुरी इति ।
मध्यप्रदेशराज्यम् मध्यप्रदेश-राज्यस्य चतुर्षु महानगरेषु अन्यतमम् अस्ति इदं भोपाल-महानगरम् । इदं मध्यप्रदेशराज्यस्य भोपालमण्डलस्य मुख्यालयः, मध्यप्रदेशराज्यस्य राजधानी च वर्तते । नगरमिदं तडागानां नगरत्वेन ज्ञायते । पुरा भोपाल-महानगरं राजवंशजानां राजधानी अपि आसीत् । भोपाल-नगरं भारतस्य स्वच्छनगरेषु अन्यतमम् अस्ति । भोपाल-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । केवरा-जलबन्धः अस्य नगरस्य प्रसिद्धं पर्यटनस्थलम् अस्ति । “मनुबहन की टेकरी” इत्येतत् स्थलम् अपि भ्रमणाय उत्तमं स्थलं वर्तते । इदं स्थलं पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं स्थलं जैनधर्मस्य अपि धार्मिकस्थलम् अस्ति । शाहपुरा-तडागः भोपाल-नगरस्य बाह्यक्षेत्रे स्थितः अस्ति । स्थानीयजनेषु अयं तडागः लोकप्रियः वर्तते । भोपाल-नगरात् ७ किलोमीटर्मिते दूरे स्थितं भगवतः शिवस्य गुहा-मन्दिरं प्रसिद्धम् अस्ति । भोपाल-नगरे बहूनि ऐतिहासिकानि भवनानि सन्ति । तेषु भवनेषु गौहर-भवनं, शौकत-भवनं, “पुराना किला”, “सदर मञ्जिल” च अन्यतमानि सन्ति ।
नागौर कर्नल् जेम्स् टॉड् इत्यस्य गुरुः यतिः ज्ञानचन्द्रः 'माण्डल मेवाड' इत्याख्ये सङ्ग्रहे पञ्चविंशतिदेशानां राजधानीनाम् उल्लेखम् अकरोत् । तस्यां सूचौ अपि जाङ्गलदेशस्य राजधानी अहिच्छत्रपुरं प्राप्यते । सन्धुदेशे अहिच्छत्रपुराख्यस्य नगरस्य अवस्थितिविषये भैरणमत्ति-शिलालेखेऽपि उल्लिखितम् अस्ति । इतिहासविदां मतानुसारं जाङ्गलप्रदेशस्य राजधानी अहिच्छत्रपुरम् आसीत् । परन्तु पृथ्वीराजविजयमहाकाव्ये जयानकः वासुदेवस्य राजधान्याः नाम नोल्लिखितवान् । अतः इतिहासवित्सु वैमनस्यम् अस्ति यत्, चौहानवंशीयानां राजधानी अहिच्छत्रपुरं कुत्र आसीत् ? इति । सम्पूर्णे भारतवर्षे अहिच्छत्रपुराख्याः अनेके ग्रामाः विद्यन्ते । 'बॉब्बे गेजेटियर्' मध्ये अनेकेषां ग्रामाणां नाम अहिच्छत्रपुरं प्राप्यते । अतः विवादः अधिकः उग्रः अभवत् । जनरल कनिंघम इत्यस्य इतिहासविदः मतानुसारम् अहिच्छत्रपुरम् उत्तरप्रदेशस्य रामनगरस्य पार्श्वे अस्ति । सः ग्रामः सद्यः अहिच्छत्रा इति प्रसिद्धः । सः ग्रामः बदाऊँ सदर इत्याख्यात् स्थलात् २० माइल् दूरे अवस्थितः । परन्तु पृथ्वीराजविजयमहाकाव्ये उल्लिखितम् अस्ति यत्, वासुदेवस्य राजधानी लावणजलाशयस्य समीपे एव कुत्रचिदस्ति इति । एतस्य उल्लेखस्य आधारेण इतिहासविदः जनरल कनिंघम इत्यस्य मतस्य खण्डनम् अकुर्वन् ।
तेलङ्गाणाराज्यम् आदिलाबाद-नगरं तेलङ्गाना-राज्यस्य आदिलाबाद-मण्डले स्थितम् अस्ति । नगरमिदम् आदिलाबाद-मण्डलस्य मुख्यालयः अस्ति । “मुहम्मद आदिल शाह” इत्याख्यस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । सः बीजापुरस्य शासकः आसीत् । अस्य नगरस्य इतिहासः महत्त्वपूर्णः अस्ति । पुरा अस्मिन् नगरे विभिन्नसंस्कृतीनां, धर्माणां च समावेशः आसीत् । नगरेऽस्मन् सप्तवाहन-वंशेन, वकाताका-वंशेन,राष्ट्रकूट-वंशेन, काकतीय-वंशेन, चालुक्य-वंशेन, बरार-वंशेन इत्यादिभिः दक्षिणभारतीयराजवंशैः शासनं कृतम् । अस्मिन् नगरे मौर्यराजवंशस्य, मुगल-राजवंशस्य इत्यादीनाम् उत्तरभारतीयराजवंशानाम् अपि शासनम् आसीत् । यतः इदं नगरं मध्य-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । अतः अस्मिन् प्रदेशे उत्तर-दक्षिणभारतयोः शासकाः आक्रमणं कुर्वन्ति स्म । तेन कारणेन अस्य नगरस्य आधुनिकेतिहासे मराठी-तेलुगु-संस्कृत्योः मिश्रणम् अस्ति । नगरेऽस्मिन् गुजरातीसंस्कृतिः, बङ्गालीसंस्कृतिः, राजस्थानीसंस्कृतिः च अपि दृश्यते । इदं नगरं तेलङ्गाना-राज्यस्य महत्त्वपूर्णं वीक्षणीयस्थलं वर्तते । “कुन्तला-जलप्रपातः”, “सेण्ट् जोसेफ् कैथेड्रल्”, “कदम-जलबन्धः”, “सदर मट्ठ एनीकट”, “महात्मागान्धी-उद्यानं”, “बसरासरस्वती-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । औरङ्गजेब-राज्ञः शासनकाले इदं क्षेत्रं प्रमुखं व्यापारकेन्द्रम् आसीत् । आदिलाबाद-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्मिन् नगरे अत्यधिकम् औष्ण्यं भवति । किन्तु शैत्यं तु न्यूनम् एव भवति । जनाः शीतर्तौ इदं नगरं गच्छन्ति । यतः शीतर्तोः वातावरणं सुखदं, स्वास्थ्यकरं च भवति । आदिलाबाद-नगरं ७ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः आदिलाबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । आदिलाबाद-रेलस्थानकात् नान्देड-नगराय, नेल्लोर-नगराय, विजयवाडा-नगराय, हैदराबाद-नगराय, पटना-नगराय, नागपुर-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । आदिलाबाद-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् आदिलाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । आदिलाबा-नगरात् इदं विमानस्थानकम् २८० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण आदिलाबाद-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः जनाः सरलतया आदिलाबाद-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति ।